Wednesday, October 22, 2025
Google search engine
HomeTop NewsSanskrit Post: Vagdevi Saraswati: वाग्देवी सरस्वती

Sanskrit Post: Vagdevi Saraswati: वाग्देवी सरस्वती

Vagdevi Saraswati: भगवती सरस्वती विद्या-बुद्धि-ज्ञान-वाणीनाम् अधिष्ठात्रीदेवी आख्यायते । सा सर्वदा हि भक्तेभ्यः शास्त्रज्ञानं प्रददाति।..

Vagdevi Saraswati: भगवती सरस्वती विद्या-बुद्धि-ज्ञान-वाणीनाम् अधिष्ठात्रीदेवी आख्यायते । सा सर्वदा हि भक्तेभ्यः शास्त्रज्ञानं प्रददाति ।

प्रतिवर्षं माघ-शुक्ल-पञ्चम्यां तिथौ इदं सरस्वतीपूजनपर्व सनातनधर्मावलम्बिभिः आभारतम्, नेपालभूटानादिविदेशेष्वपि सम्यक्तया आचर्यते । विशेषतः शिक्षानुष्ठानेषु एतस्य पर्वणः प्रभावः अधिकः ।

अस्य सारस्वतोत्सवस्य महत्त्वम् अनुपमं वर्तते । भगवत्याः स्वरूपं किमिति आदौ ज्ञातव्यम् । शारदादेव्याः मूलस्थानं शशाङ्क-सदनम् अथवा अमृतमय-प्रकाशपुञ्जः वर्तते । यतः सा स्वोपासकानां कृते निरन्तरं पञ्चाशदक्षररूपां ज्ञानामृतधारां प्रवाहयति ।

तस्याः विग्रहः शुद्धः, ज्ञानमयः, आनन्दमयश्च वर्तते । तस्याः तेजः दिव्यम्, अपरिमेयं तथा तदेव शब्दब्रह्मरूपे स्तुत्यमस्ति । सृष्टिकाले ईश्वरेच्छया आद्याशक्तिः आत्मानं पञ्चधा विभक्तवती ।

ताः हि राधा, पद्मा, सावित्री, दुर्गा एवञ्च सरस्वती इति रूपेषु भगवतः श्रीकृष्णस्य नानाङ्गेषु प्रकटीभूताः आसन् । तत्समये श्रीकृष्णस्य कण्ठदेशात् उत्पन्नायाः देव्याः नाम ‘सरस्वती’ इति । ब्रह्मवैवर्तपुराणे उल्लिखितमस्ति यत् –

‘आविर्बभूव तत्पश्चान्मुखतः परमात्मनः ।
एका देवी शुक्लवर्णा वीणापुस्तकधारिणी ।।

वागधिष्ठात्री देवी सा कवीनामिष्टदेवता ।
सा च शक्तिः सृष्टिकाले पञ्चधा चेश्वरेच्छया ।

राधा पद्मा च सावित्री दुर्गा देवी सरस्वती ।।
वागधिष्ठात्री या देवी शास्त्रज्ञानप्रदा सदा ।

कृष्णकण्ठोद्भवा सा च या च देवी सरस्वती ।।’ शुभमस्तु ।
— नारदः ।

(डॉ. मुकेश कुमार ओझा)

ये भी पढ़ें: Shri Ganesh: प्रथम पूज्य श्री गणेश जी का माहात्म्य

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments